|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.66. अध्यायः 066
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति गयगुणानुवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-66-0x(4421)(47159)
गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम।
ये वै वर्षशत राजा हुतशिष्टाशनोऽभवत्॥ 7-66-1(47160)
तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः।
तपसा ब्रह्मचर्येण व्रतेन नियमेन च॥ 7-66-2(47161)
गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम्।
स्वधर्मेणाविहिंस्यान्यान्धनमिच्छामि चाक्षयम्॥ 7-66-3(47162)
विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः।
कन्यासु च सवर्णासु सुप्रजस्त्वं च मे भवेत्॥ 7-66-4(47163)
अन्नमोजो महो मह्यं धर्मे मे रमतां मनः।
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक॥ 7-66-5(47164)
तथा भिष्यतीत्युक्त्वा तत्रैवान्तरधीयत।
गयो ह्यवाप्य तत्सर्वं धर्मेणाराधयञ्जगत्॥ 7-66-6(47165)
स दर्शपूर्णमासाभ्यां कालेष्वाग्रयणेन च।
चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः॥ 7-66-7(47166)
अयजच्छ्रद्धया राजा परिसंवत्सराञ्शतम्।
गवां शतसहस्राणि शतमश्वशतानि च॥ 7-66-8(47167)
शतं निष्कसहस्राणि गवां चाप्ययुतानि षट्।
उत्थायोत्थाय सम्प्रादात्परिसंवत्सराञ्शतम्॥ 7-66-9(47168)
नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः।
ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा॥ 7-66-10(47169)
सौवर्णां पृथिवीं कृत्वा य इमां प्रमिशर्कराम्।
विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे॥ 7-66-11(47170)
जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः।
गयस्यासन्समृद्धास्तु सर्वभूतमनोहराः॥ 7-66-12(47171)
सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा।
ब्राह्ममेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च॥ 7-66-13(47172)
ससमुद्रवनद्वीपनदीनदवनेषु च।
नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन्॥ 7-66-14(47173)
भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा।
गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन्॥ 7-66-15(47174)
षट्त्रिंशद्योजनायामा त्रिंशद्योजनमायता।
पश्चात्पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी॥ 7-66-16(47175)
गयस्य यजमानस्य मुक्तावज्रमणिस्तृता।
प्रादात्स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च॥ 7-66-17(47176)
यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः।
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः॥ 7-66-18(47177)
कुल्याश्च क्षीरवाहिन्यो रसानां चापभवंस्तदा।
वस्त्राभरणगन्धानां शारयश्च पृथग्विधाः॥ 7-66-19(47178)
यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः।
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्॥ 7-66-20(47179)
स चेन्ममार स़ञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-66-21(47180)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट्षष्टितमोऽध्यायः॥ 66 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-66-1 गयं चामूर्तरयसं इति घ. झ.पाठः॥ 5-66-4 पात्रेषु ददतः सामे श्रद्धा भवतु इति क.ङ.ड.पाठः॥ 5-66-7 पौर्णमासाभ्य इति घ. पाठः॥ 5-66-10 नक्षत्रविहिता दक्षिणाः॥ 5-66-20 यस्य प्रसादाद्रायत्री त्रिषु लोकेषु विश्रुता इति क.पाठः॥ 5-66-66 षट्षष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|